कवच

शनि कवच

 

 अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः II

 अनुष्टुप् छन्दः II शनैश्चरो देवता II शीं शक्तिः II

 शूं कीलकम् II शनैश्चरप्रीत्यर्थं जपे विनियोगः II

 नीलाम्बरो नीलवपु: किरीटी गृध्रस्थितत्रासकरो धनुष्मान् ।

 चतुर्भुज: सूर्यसुत: प्रसन्न: सदा मम स्याद्वरद: प्रशान्त:।।1।।

 श्रृणुध्वमृषय: सर्वे शनिपीडाहरं महत् ।

 कवचं शनिराजस्य सौरेरिदमनुत्तमम् ।।2।।

 कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

 शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ।।3।।

 ऊँ श्रीशनैश्चर: पातु भालं मे सूर्यनंदन: ।

 नेत्रे छायात्मज: पातु कर्णो यमानुज: ।।4।।

 नासां वैवस्वत: पातु मुखं मे भास्कर: सदा ।

 स्निग्धकण्ठश्च मे कण्ठ भुजौ पातु महाभुज: ।।5।।

 स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रद: ।

 वक्ष: पातु यमभ्राता कुक्षिं पात्वसितस्थता ।।6।।

 नाभिं गृहपति: पातु मन्द: पातु कटिं तथा ।

 ऊरू ममाSन्तक: पातु यमो जानुयुगं तथा ।।7।।

 पदौ मन्दगति: पातु सर्वांग पातु पिप्पल: ।

 अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दन: ।।8।।

 इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य य: ।

 न तस्य जायते पीडा प्रीतो भवन्ति सूर्यज: ।।9।।

 व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा ।

 कलत्रस्थो गतोवाSपि सुप्रीतस्तु सदा शनि: ।।10।।

 अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

 कवचं पठते नित्यं न पीडा जायते क्वचित् ।।11।।

 इत्येतत् कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।

 जन्मलग्नस्थितान्दोषान् सर्वान्नाशयते प्रभु: ।।12।।

 ॥ इति शनि कवच संपूर्णं ॥